(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.84. अध्यायः 084
Mahabharata - Drona Parva - Chapter Topics
जयद्रथम्प्रति गच्छताऽर्जुनेन युधिष्ठिररक्षणाय सात्यकिम्प्रति चोदना॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-84-0x(4482)(47868)
तथा तु वदतां तेषां प्रादुरासीद्धनञ्जयः।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्॥ 7-84-1(47869)
तं प्रविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्यितम्।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः॥ 7-84-2(47870)
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत॥ 7-84-3(47871)
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान्।
तादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः॥ 7-84-4(47872)
सञ्जय उवाच। 7-84-5x(4483)
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्॥ 7-84-5(47873)
ततस्तत्कथयामास यथादृष्टं धनञ्जयः।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम्॥ 7-84-6(47874)
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः।
नमस्कृत्य वृषाङ्काय साधुसाध्वित्यथाब्रुवन्॥ 7-84-7(47875)
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना।
त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः॥ 7-84-8(47876)
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्॥ 7-84-9(47877)
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्॥ 7-84-10(47878)
तत्र गत्वा हृषीकेशः कल्पयामास शास्त्रवित्।
रथं रथवरस्याजौ वानरर्षभलक्षणम्॥ 7-84-11(47879)
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद्यथा॥ 7-84-12(47880)
ततः पुरुषशार्दूलः सज्जं सर्वं न्यवेदयत्।
रथं पुरुषसिंहस्य सध्वजं सुपताकिनम्॥ 7-84-13(47881)
स तु लोकवरः पुंसां किरीटी हेमवर्मभृत्।
चापबाणधरो वाहं प्रदक्षिणमवर्तत॥ 7-84-14(47882)
तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः।
स्तूयमानो जयाशीर्भिरारुरोह महारथम्॥ 7-84-15(47883)
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा॥ 7-84-16(47884)
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः।
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः। 7-84-17(47885)
अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ॥ 7-84-18(47886)
अथ जग्राह गोविन्दो रश्मीन्रश्मिविदांवरः।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः॥ 7-84-19(47887)
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः।
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी॥ 7-84-20(47888)
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा।
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये॥ 7-84-21(47889)
ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः॥ 7-84-22(47890)
सजयाशीः सपुण्याहः सूतमागधनिःस्वनः।
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्॥ 7-84-23(47891)
तमनुप्रवणो वायुः पुण्यगन्धवहः शुभः।
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन्॥ 7-84-24(47892)
ततस्तस्मिन्क्षणे राजन्विविधानि शुभानि च।
प्रादुरासन्निमित्तानि विजयाय बहूनि च॥ 7-84-25(47893)
पाण्डवानां त्वदीयानां विपरीतानि मारिष।
दृष्ट्वाऽर्जुनो निमित्तानि विजयाय प्रदक्षिणम्।
युयुधानं महेष्वासमिदं वचनमब्रवीत्॥ 7-84-26(47894)
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः।
यथाहीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव॥ 7-84-27(47895)
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते॥ 7-84-28(47896)
यथा परमकं कृत्यं सैन्धवस्य वधो मम।
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम्॥ 7-84-29(47897)
स त्वमद्य महाबाहो राजानं परिपालय।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा॥ 7-84-30(47898)
न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः॥ 7-84-31(47899)
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ॥ 7-84-32(47900)
मय्यपेक्षा न कर्तव्या गोप्ताऽयं मम केशवः।
राज्ञ एव परा गुप्तिः कार्या सर्वात्मना त्वया॥ 7-84-33(47901)
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः।
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम्॥ 7-84-34(47902)
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा।
तथेत्युक्त्वाऽगमत्तत्र यत्र राजा युधिष्ठिरः॥ ॥ 7-84-35(47903)

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि चतुरशीतितमोऽध्यायः॥ 84 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-84-12 शिशुर्दिवसकृत् बालः सूर्यः॥ 5-84-18 यथा च्यवनमश्विनौ इति क.ट.ड.पाठः॥ 5-84-26 प्रदक्षिणं छन्दोनुवर्तिनम्॥ 5-84-33 अपेक्षा अनुरोधः॥ 5-84-84 चतुरशीतितमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.